|| द्वादश ज्योतिर्लिङ्ग स्तोत्रम् ||: -

 || द्वादश ज्योतिर्लिङ्ग स्तोत्रम् ||: -




|| द्वादश ज्योतिर्लिङ्ग स्तोत्रम् ||


|| द्वादश ज्योतिर्लिङ्ग स्तोत्रम् ||


☀☀☀☀☀|| द्वादश ज्योतिर्लिङ्ग स्तोत्रम् ||☀☀☀☀☀



सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् |

भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये || १||

श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् |

तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् || २||

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् |

अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् || ३||

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय |

सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे || ४||

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् |

सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि || ५||

याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः |

सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये || ६||

महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः |

सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे || ७||

सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे |

यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे || ८||

सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः |

श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि || ९||

यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च |

सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि || १०||

सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् |

वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये || ११||

इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् |

वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये || १२||

ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण |

स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ||



|| इति द्वादश ज्योतिर्लिङ्गस्तोत्रं संपूर्णम् ||

----------

सौराष्ट्रे सोमनाथं च

श्रीशैले मल्लिकार्जुनम्।

उज्जयिन्यां महाकालं

ओम्कारममलेश्वरम्॥


सौराष्ट्र प्रदेश (काठियावाड़) में श्री सोमनाथ,

श्रीशैल पर श्री मल्लिकार्जुन,

उज्जयिनी में श्री महाकाल,

ओंकारेश्वर अमलेश्वर (अमरेश्वर)

परल्यां वैद्यनाथं च

डाकिन्यां भीमशङ्करम्।

सेतुबन्धे तु रामेशं

नागेशं दारुकावने॥


परली में वैद्यनाथ,

डाकिनी नामक स्थान में श्रीभीमशंकर,

सेतुबंध पर श्री रामेश्वर,

दारुकावन में श्रीनागेश्वर

वाराणस्यां तु विश्वेशं

त्र्यम्बकं गौतमीतटे।

हिमालये तु केदारं

घुश्मेशं च शिवालये॥


वाराणसी (काशी) में श्री विश्वनाथ,

गौतमी (गोदावरी) के तट पर श्री त्र्यम्बकेश्वर,

हिमालय पर श्रीकेदारनाथ और

शिवालय में श्री घृष्णेश्वर, को स्मरण करें।

एतानि ज्योतिर्लिङ्गानि

सायं प्रातः पठेन्नरः।

सप्तजन्मकृतं पापं

स्मरणेन विनश्यति॥


जो मनुष्य प्रतिदिन प्रातःकाल और संध्या समय इन बारह ज्योतिर्लिंगों का नाम लेता है, उसके सात जन्मों के पाप इन लिंगों के स्मरण-मात्र से मिट जाते है।

एतेशां दर्शनादेव पातकं नैव तिष्ठति।

कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः॥


समाप्त


श्री चंद्र्शेखराय नम:




Comments

Popular posts from this blog

ગાયત્રી શતક પાઠ અને ગાયત્રી ચાલીસા

ભક્તિ ચેનલ ઓલ નામ

નવરાત્રી જય આધ્યશક્તિ આરતી