॥ पंचश्लोकी गणेशपुराण ॥

 

॥ पंचश्लोकी गणेशपुराण ॥

ॐ ॐ

॥पंचश्लोकी गणेशपुराण ॥

🐚

==================================

=श्रीगणेश=


☀☀☀☀☀॥ पंचश्लोकी गणेशपुराण॥☀☀☀☀☀
☀☀☀☀☀☀☀☀☀☀☀☀☀☀☀
पंचश्लोकी गणेशपुराण
☀☀☀☀☀☀☀☀☀☀☀☀☀☀☀
मोक्ष प्राप्ति के लिए पढ़ें पंचश्लोकी गणेशपुराण

भगवान श्रीगणेश की प्रतिमा के सामने अथवा किसी मंदिर में गणेशजी के सामने बैठकर जो मनुष्य प्रतिदिन भक्तिभाव से पंचश्लोकी गणेशपुराण का पाठ करेगा, वह मनुष्य समस्त उत्तम भोगों का उपभोग कर परम निर्वाण (मोक्ष) को प्राप्त होगा।



श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरा

तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा।

संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनं

कर्तुं सृष्टिमिमां स्तुतः स विधिना व्यासेन बुद्धयाप्तये॥
संकष्टयाश्च विनायकस्य च मनोः स्थानस्य तीर्थस्य वै

दूर्वाणां महिमेति भक्तिचरितं तत्पार्थिवस्यार्चनम्‌।

तेभ्यो यैर्यदभीप्सितं गणपतिस्तत्तत्प्रतुष्टो ददौ

ताः सर्वा न समर्थ एव कथितुं ब्रह्मा कुतो मानवः॥
क्रीडाकाण्डमथो वदे कृतयुगे श्वेतच्छविः काश्यपः।

सिंहांकः स विनायको दशभुजो भूत्वाथ काशीं ययौ।

हत्वा तत्र नरान्तकं तदनुजं देवान्तकं दानवं

त्रेतायां शिवनन्दनो रसभुजो जातो मयूरध्वजः॥


हत्वा तं कमलासुरं च सगणं सिन्धु महादैत्यपं

पश्चात्‌ सिद्धिमती सुते कमलजस्तस्मै च ज्ञानं ददौ।

द्वापारे तु गजाननो युगभुजो गौरीसुतः सिन्दुरं

सम्मर्द्य स्वकरेण तं निजमुखे चाखुध्वजो लिप्तवान्‌॥
गीताया उपदेश एव हि कृतो राज्ञे वरेण्याय वै

तुष्टायाथ च धूम्रकेतुरभिधो विप्रः सधर्मधिकः।

अश्वांको द्विभुजो सितो गणपतिर्म्लेच्छान्तकः स्वर्णदः

क्रीडाकाण्डमिदं गणस्य हरिणा प्रोक्तं विधात्रे पुरा॥

एतच्छ्लोकसुपंचकं प्रतिदिनं भक्त्या पठेद्यः पुमान्‌

निर्वाणं परमं व्रजेत्‌ स सकलान्‌ भुक्त्वा सुभोगानपि।

॥ इति श्रीपंचश्लोकिगणेशपुराणम्‌ ॥

समाप्त

ॐ श्रीकराय नमः ।

Comments

Popular posts from this blog

ગાયત્રી શતક પાઠ અને ગાયત્રી ચાલીસા

ભક્તિ ચેનલ ઓલ નામ

Anand No Garbo With Gujarati Lyrics - આનંદ નો ગરબો