हनुमत-स्तवन

 

हनुमत-स्तवन

💚 💗 💚

==================================

=Yoguru=

☀☀☀☀☀☀☀☀☀☀☀☀☀☀☀
हनुमत-स्तवन

प्रनवउँ पवन कुमार खेल बन पावक ज्ञान घन I
जासु हृदय आगार बसहिं राम सर चाप धर II

अतुलितबलधामं हेमशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् I
सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि II

गोष्पदीकृतवारीशं मशकीकृतराक्षसम् I
रामायणमहामालारत्नं बन्देनिलात्मजम् II

अंजनानन्दनम् वीरम् जानकीशोकनाशनम् I
कपीशमक्षहन्तारम् बन्दे लङ्काभयंकरम् II

उल्लङ्घ्य सिन्धोः सलिलं सलीलम् यः शोकवह्निं जनकात्मजायाः I
आदाय तेनैव ददाह लंका नमामि तं प्रांजलिरांजनेयम् II

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं I
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये II

आंजनेयमतिपाटलाननं कांचनाद्रिकमनीयविग्रहम् I
पारिजाततरुमूलवासिनम भावयामि पवमाननन्दनम् II

यत्र यत्र रगुनाथ कीर्तनं तत्र तत्र कृतमस्तकाञ्जिलाम I
वाष्पवारिपरिपूर्णलोचनम् मारुतिं नमत राक्षसान्तकम् II

समाप्त

ॐ रसा-धराय नमः

Comments

Popular posts from this blog

ગાયત્રી શતક પાઠ અને ગાયત્રી ચાલીસા

ભક્તિ ચેનલ ઓલ નામ

Anand No Garbo With Gujarati Lyrics - આનંદ નો ગરબો